|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.100. अध्यायः 100
Mahabharata - Karna Parva - Chapter Topics
कर्णवधानन्तरं कृष्णार्जुनयोर्युधिष्ठिरसमीपगमनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-100-0x(5074)(60017)
शरसङ्कृत्तवर्माणं रुधिरोक्षितवक्षसम्।
गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति॥ 8-100-1(60018)
तप्तजाम्बूनदनिभं बालार्कसदृशद्युतिम्।
जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे॥ 8-100-2(60019)
हतस्यापि महाराज सूतपुत्रस्य संयुगे।
वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः॥ 8-100-3(60020)
हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते।
नाभवद्विकृतिः काचिन्मृतस्यापि महात्मनः॥ 8-100-4(60021)
चारुवेषधरं राजंश्चारुमौलिशिरोधरम्।
तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति॥ 8-100-5(60022)
कनकोत्तमसह्काशो ज्वलन्निव विभावसुः।
स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा॥ 8-100-6(60023)
यथाऽग्निर्ज्वलनो दीप्तो जलमासाद्य शाम्यति।
कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः॥ 8-100-7(60024)
आहृत्य स यशो दीप्तं सुयुद्धेनात्मनो भुवि।
सपुत्रः समरे कर्णः प्रशान्तः पार्थतेजसा॥ 8-100-8(60025)
प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा।
नानाभरणवान्रजंस्तप्तजाम्बूनदप्रभः॥ 8-100-9(60026)
वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम्।
श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च।
हतो वैकर्तनः कर्णः पादपोऽङ्कुरवानिव॥ 8-100-10(60027)
ददानीत्येव यः प्रादान्न नास्तीत्यर्थितोऽवदत्।
सद्ध्यः सदा सत्पुरुषः स हतो द्वैरथे वृषा॥ 8-100-11(60028)
यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः।
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम्॥ 8-100-12(60029)
स दातॄणां प्रियो राजन्दाता चैव मनोरथान्।
स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम्॥ 8-100-13(60030)
यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम्।
आदाय तव पुत्राणां जयाशां सर्म वर्म च॥ 8-100-14(60031)
हते च कर्णे सरितो न सस्रु--
र्जगाम चास्तं कलुषो दिवाकरः।
श्वेतो ग्रहश्च ज्वलितार्कवर्णो
यमस्य पुत्रोऽभ्युदितः स तिर्यक्॥ 8-100-15(60032)
नभश्चचालाथ ननाद चोर्वी
ववुश्च वाताः परुषाश्च घोराः।
दिशो बभूवुर्ज्वलिताः सधूमा
महार्णवाः सस्वनुश्चुक्षुभुश्च॥ 8-100-16(60033)
सकाननाश्चाद्रिवराश्चकम्पिरे
प्रविव्यथुर्भूतगणाश्च मारिष।
बृहस्पतिः सम्परिवार्य रोहिणीं
बभूव चन्द्रार्कसमो विशाम्पते॥ 8-100-17(60034)
हते कर्णे न दिशो विप्रचाराः
सचन्द्रार्का द्यौर्विचचाल भूमिः।
पपात चोल्का ज्वलनप्रभा च
निशाचरा हृष्टतरा बभूवुः॥ 8-100-18(60035)
शशिप्रकाशाननमर्जुनो यदा
जहार कर्णस्य शिरः शरेण।
ततोऽन्तरिक्षे सहसैव शब्दो
बभूव हाहेति सुरैर्विमुक्तः॥ 8-100-19(60036)
सदेवगन्धर्वमनुष्यपूजितं
निहत्य कर्णं रिपुमाहवेऽर्जुनः।
रराज राजन्परमेण तेजसा
यथा पुरा वृत्रवधे शतक्रतुः॥ 8-100-20(60037)
पताकिना भीमनिनादकेतुना
रथेन शङ्खस्फटिकावभासिना।
महेन्द्रवाहप्रतिमेन तावुभौ
महेन्द्रवीर्यप्रतिमानपौरुषौ॥ 8-100-21(60038)
सुवर्णमुक्तामणिवज्रविद्रुमै--
रलङ्कृतेनाप्रतिमेन रंहसा।
नरोत्तमौ यादवपाण्डुनन्दनौ
दिवाकरौ दीप्तहुताशनाविव।
रणाजिरे वीतभयौ विरेजतुः
समानयोगाविव विष्णुवासवैः॥ 8-100-22(60039)
ततो धनुर्ज्यातलनेमिनिस्वनैः
प्रसह्य कृत्वा च रिपून्गतप्रभान्।
स साधयित्वा च रिपूञ्शरौघैः
कपिध्वजः पक्षिवरध्वजश्च।
प्रदध्मतुः शङ्खवरौ सुघोषौ
मनांस्यरीणामुपतापयन्तौ॥ 8-100-23(60040)
सुवर्णजालावततौ महास्वनौ
हिमावदातौ परिगृह्य पाणिमिः।
चुचुम्बतुः शङ्खवरौ नृणां वरौ
विघोषयन्तौ विजयं जगत्त्रये॥ 8-100-24(60041)
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः।
पृथिवीमन्तरिक्षं च दिशश्च समपूरयत्॥ 8-100-25(60042)
वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम।
शूरयोः शङ्खशब्देन माधवस्यार्जुनस्य च॥ 8-100-26(60043)
तौ शङ्खशब्देन निनादयन्तौ
वनानि शैलान्सरितो गुहाश्च।
वित्रासयन्तौ तव पुत्रसेनां
युधिष्ठिरं नन्दयितुं प्रयातौ॥ 8-100-27(60044)
ततः प्रजग्मुः कुरवो जवेन
श्रुत्वैव शङ्खस्वनमीर्यमाणम्।
विहाय मद्राधिपतिं पतिं च
दुर्योधनं भारत भारतानाम्॥ 8-100-28(60045)
ततो रथेनाम्बुदबृन्दनादिना
शरद्वहर्मध्यदिवाकरत्विषा।
धनञ्जयस्याधिरथेश्च विस्मिताः
प्रशंसमानाः प्रययुस्तदाऽर्जुनम्॥ 8-100-29(60046)
महाहवे तं बहुशोभमानं
धनञ्जयं योधगणैः समेताः।
तावन्वमोदंश्च जनाः प्रकामं
प्रभाकरावभ्युदितौ यथैव॥ ॥ 8-100-30(60047)
इति श्रीमन्महाभारते कर्णपर्वणि शततमोऽध्यायः॥ 100 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-100-13 सदा स्त्रीणां प्रिय इति झ.पाठः॥ 8-100-100 शततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|